एताया॒मोप॑ ग॒व्यन्त॒ इन्द्र॑म॒स्माकं॒ सु प्रम॑तिं वावृधाति । अ॒ना॒मृ॒णः कु॒विदाद॒स्य रा॒यो गवां॒ केतं॒ पर॑मा॒वर्ज॑ते नः ॥
etāyāmopa gavyanta indram asmākaṁ su pramatiṁ vāvṛdhāti | anāmṛṇaḥ kuvid ād asya rāyo gavāṁ ketam param āvarjate naḥ ||
आ । इ॒त॒ । अया॒म । उप॑ । ग॒व्यन्तः॑ । इन्द्र॑म् । अ॒स्माक॑म् । सु । प्रम॑तिम् । व॒वृ॒धा॒ति॒ । अ॒ना॒मृ॒णः । कु॒वित् । आत् । अ॒स्य । रा॒यः । गवा॒म् । केत॑म् । पर॑म् । आ॒वर्ज॑ते । नः॒॥
स्वामी दयानन्द सरस्वती
अब तेतीसवें सूक्त का प्रारम्भ है। उसके पहिले मन्त्र में इन्द्र शब्द से ईश्वर और सभापति का प्रकाश किया है।
स्वामी दयानन्द सरस्वती
(आ) समन्तात् (इत) प्राप्नुत (अयाम) प्राप्नुयाम। अयं लोडुत्तमबहुवचने प्रयोगः। (उप) सामीप्ये (गव्यन्तः) आत्मनो गा इन्द्रियाणीच्छन्तः। अत्र गोशब्दात् सुपआत्मनःक्यच्। अ० ३।१।८। इति क्यच्। गौरिति पदनामसु। पठितम्। निघं० ४।१। (इन्द्रम्) परमेश्वरम् (अस्माकम्) मनुष्यादीनाम् (सु) पूजायाम् (प्रमतिम्) प्रकृष्टा मतिर्विज्ञानं यस्य तम् (वावृधाति) वर्द्धयेत्। अत्र वृधुधातोर्लेट् बहुलं छन्दसि शपः श्लुः व्यत्ययेन परस्मैपदम् तुजादीनां दीर्घ इत्यभ्यासदीर्घत्वमन्तर्गतो ण्यर्थश्च। (अनामृणः) अविद्यमाना समंतान् भृणा हिंसका यस्य सः (कुवित्) बहुविधानि। कुविदिति बहुनामसु पठितम्। निघं० ३।१। (आत्) अनंतरार्थे (अस्य) जगतः (रायः) प्रशस्तानि। धनानि (गवाम्) मन आदीनामिन्द्रियाणां पृथिव्यादीनां पशूनां वा (केतम्) प्रज्ञानम् केत इति प्रज्ञानामसु पठितम्। निघं० ३।९। (परम्) प्रकृष्टम् (आवर्जते) समन्ताद्वर्जयति त्याजयति। अत्राङ्पूर्वाद्वृजीधातोर्लट् बहुलं छन्दसि इति शपो लुङ्न। अन्तर्गतो ण्यर्थश्च। (नः) अस्मभ्यम् ॥१॥
तत्रादाविन्द्रशब्देनेश्वरसभापती उपदिश्यते।
माता सविता जोशी
(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)या सूक्तात सूर्य मेघाच्या युद्धार्थाचे वर्णन व उपमान, उपमेय अलंकार व माणसांना युद्धविद्येचा उपदेश केल्यामुळे मागच्या सूक्तार्थाबरोबर या सूक्तार्थाची संगती जाणली पाहिजे. ॥